श्रीविष्णुसहस्रनामस्तोत्रम्‌



Shri Vishnu Sahasranama Stotram : श्रीविष्णुसहस्रनामस्तोत्रम्‌ in Sanskrit / Hindi

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥१॥
यस्य द्विरदवक्त्राद्याः पारिषद्याः परः शतम्‌।
विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये॥२॥
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्‌।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥३॥
व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे।
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः॥४॥
अविकाराय शुद्धाय नित्याय परमात्मने।
सदैकरूपरूपाय विष्णवे सर्वजिष्णवे॥५॥
यस्य स्मरणमात्रेण जन्मसंसारबन्धनात्।
विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे॥६॥
ॐ नमो विष्णवे प्रभविष्णवे।
श्रीवैशम्पायन उवाच —
श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः।
युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत॥७॥
युधिष्ठिर उवाच —
किमेकं दैवतं लोके किं वाप्येकं परायणम्।
स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम्॥८॥
को धर्मः सर्वधर्माणां भवतः परमो मतः।
किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात्॥९॥

भीष्म उवाच —

जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम्।
स्तुवन् नामसहस्रेण पुरुषः सततोत्थितः॥१०॥
तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम्।
ध्यायन् स्तुवन् नमस्यंश्च यजमानस्तमेव च॥११॥
अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम्।
लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत्॥१२॥
ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम्।
लोकनाथं महद्भूतं सर्वभूतभवोद्भवम्॥१३॥
एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः।
यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा॥१४॥
परमं यो महत्तेजः परमं यो महत्तपः।
परमं यो महद्ब्रह्म परमं यः परायणम्॥१५॥
पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम्।
दैवतं दैवतानां च भूतानां योऽव्ययः पिता॥१६॥
यतः सर्वाणि भूतानि भवन्त्यादियुगागमे।
यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये॥१७॥
तस्य लोकप्रधानस्य जगन्नाथस्य भूपते।
विष्णोर्नामसहस्रं मे शृणु पापभयापहम्॥१८॥
यानि नामानि गौणानि विख्यातानि महात्मनः।
ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये॥१९॥
ऋषिर्नाम्नां सहस्रस्य वेदव्यासो महामुनिः।
छन्दोऽनुष्टुप् तथा देवो भगवान् देवकीसुतः॥२०॥
अमृतांशूद्भवो बीजं शक्तिर्देवकिनन्दनः।
त्रिसामा हृदयं तस्य शान्त्यर्थे विनियोज्यते॥२१॥
विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम्‌।
अनेकरूप दैत्यान्तं नमामि पुरुषोत्तमं॥२२॥

पूर्वन्यासः

श्रीवेदव्यास उवाच —
ॐ अस्य श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रमहामन्त्रस्य॥
श्री वेदव्यासो भगवान ऋषिः।
अनुष्टुप् छन्दः।
श्रीमहाविष्णुः परमात्मा श्रीमन्नारायणो देवता।
अमृतांशूद्भवो भानुरिति बीजम्‌।
देवकीनन्दनः स्रष्टेति शक्तिः।
उद्भवः क्षोभणो देव इति परमो मन्त्रः।
शङ्खभृन्नन्दकी चक्रीति कीलकम्।
शार्ङ्गधन्वा गदाधर इत्यस्त्रम्।
रथाङ्गपाणिरक्षोभ्य इति नेत्रम्‌।
त्रिसामा सामगः सामेति कवचम्।
आनन्दं परब्रह्मेति योनिः।
ऋतुः सुदर्शनः काल इति दिग्बन्धः॥
श्रीविश्वरूप इति ध्यानम्‌।
श्रीमहाविष्णुप्रीत्यर्थं सहस्रनामजपे विनियोगः॥

अथ न्यासः

ॐ शिरसि वेदव्यासऋषये नमः।
मुखे अनुष्टुप्छन्दसे नमः।
हृदि श्रीकृष्णपरमात्मदेवतायै नमः।
गुह्ये अमृतांशूद्भवो भानुरिति बीजाय नमः।
पादयोर्देवकीनन्दनः स्रष्टेति शक्तये नमः।
सर्वाङ्गे शङ्खभृन्नन्दकी चक्रीति कीलकाय नमः।
करसंपूटे मम श्रीकृष्णप्रीत्यर्थे जपे विनियोगाय नमः॥
इति ऋषयादिन्यासः॥

अथ करन्यासः

ॐ विश्वं विष्णुर्वषट्कार इत्यङ्गुष्ठाभ्यां नमः।
अमृतांशूद्भवो भानुरिति तर्जनीभ्यां नमः।
ब्रह्मण्यो ब्रह्मकृद्ब्रह्मेति मध्यमाभ्यां नमः।
सुवर्णबिन्दुरक्षोभ्य इत्यनामिकाभ्यां नमः।
निमिषोऽनिमिषः स्रग्वीति कनिष्ठिकाभ्यां नमः।
रथाङ्गपाणिरक्षोभ्य इति करतलकरपृष्ठाभ्यां नमः।
इति करन्यासः॥

अथ षडङ्गन्यासः

ॐ विश्वं विष्णुर्वषट्कार इति हृदयाय नमः।
अमृतांशूद्भवो भानुरिति शिरसे स्वाहा।
ब्रह्मण्यो ब्रह्मकृद्ब्रह्मेति शिखायै वषट्।
सुवर्णबिन्दुरक्षोभ्य इति कवचाय हुम्।
निमिषोऽनिमिषः स्रग्वीति नेत्रत्रयाय वौषट्।
रथाङ्गपाणिरक्षोभ्य इत्यस्त्राय फट्।
इति षडङ्गन्यासः॥
श्रीकृष्णप्रीत्यर्थे विष्णोर्दिव्यसहस्रनामजपमहं करिष्ये इति सङ्कल्पः।

अथ ध्यानम्

क्षीरोदन्वत्प्रदेशे शुचिमणिविलसत्सैकतेर्मौक्तिकानां
मालाकॢप्तासनस्थः स्फटिकमणिनिभैर्मौक्तिकैर्मण्डिताङ्गः।
शुभ्रैरभ्रैरदभ्रैरुपरिविरचितैर्मुक्तपीयूष वर्षैः
आनन्दी नः पुनीयादरिनलिनगदा शङ्खपाणिर्मुकुन्दः॥१॥
भूः पादौ यस्य नाभिर्वियदसुरनिलश्चन्द्र सूर्यौ च नेत्रे
कर्णावाशाः शिरो द्यौर्मुखमपि दहनो यस्य वास्तेयमब्धिः।
अन्तःस्थं यस्य विश्वं सुरनरखगगोभोगिगन्धर्वदैत्यैः
चित्रं रंरम्यते तं त्रिभुवन वपुषं विष्णुमीशं नमामि॥२॥
ॐ शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम्।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्॥३॥
मेघश्यामं पीतकौशेयवासं
श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम्।
पुण्योपेतं पुण्डरीकायताक्षं
विष्णुं वन्दे सर्वलोकैकनाथम्॥४॥
नमः समस्तभूतानामादिभूताय भूभृते।
अनेकरूपरूपाय विष्णवे प्रभविष्णवे॥५॥
सशङ्खचक्रं सकिरीटकुण्डलं
सपीतवस्त्रं सरसीरुहेक्षणम् |
सहारवक्षःस्थलकौस्तुभश्रियं
नमामि विष्णुं शिरसा चतुर्भुजम्॥६॥
छायायां पारिजातस्य हेमसिंहासनोपरि
आसीनमम्बुदश्याममायताक्षमलंकृतम् |
चन्द्राननं चतुर्बाहुं श्रीवत्साङ्कित वक्षसं
रुक्मिणी सत्यभामाभ्यां सहितं कृष्णमाश्रये॥७॥

स्तोत्रम्‌

॥ हरिः ॐ ॥

विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः।
भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः॥१॥
पूतात्मा परमात्मा च मुक्तानां परमा गतिः।
अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च॥२॥
योगो योगविदां नेता प्रधानपुरुषेश्वरः।
नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः॥३॥
सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः।
संभवो भावनो भर्ता प्रभवः प्रभुरीश्वरः॥४॥
स्वयंभूः शम्भुरादित्यः पुष्कराक्षो महास्वनः।
अनादिनिधनो धाता विधाता धातुरुत्तमः॥५॥
अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः।
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः॥६॥
अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः।
प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम्॥७॥
ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः।
हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः॥८॥
ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः।
अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान्॥९॥
सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः।
अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः॥१०॥
अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः।
वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः॥११॥
वसुर्वसुमनाः सत्यः समात्माऽसम्मितः समः।
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः॥१२॥
रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः।
अमृतः शाश्वत स्थाणुर्वरारोहो महातपाः॥१३॥
सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः।
वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः॥१४॥
लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः।
चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः॥१५॥
भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः।
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः॥१६॥
उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः।
अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः॥१७॥
वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः।
अतीन्द्रियो महामायो महोत्साहो महाबलः॥१८॥
महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः।
अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक्॥१९॥
महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः।
अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः॥२०॥
मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः।
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः॥२१॥
अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान् स्थिरः।
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा॥२२॥
गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः।
निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः॥२३॥
अग्रणीर्ग्रामणीः श्रीमान् न्यायो नेता समीरणः।
सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात्॥२४॥
आवर्तनो निवृत्तात्मा संवृतः संप्रमर्दनः।
अहः संवर्तको वह्निरनिलो धरणीधरः॥२५॥
सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः।
सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः॥२६॥
असंख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः।
सिद्धार्थः सिद्धसंकल्पः सिद्धिदः सिद्धिसाधनः॥२७॥
वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः।
वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः॥२८॥
सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः।
नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः॥२९॥
ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः।
ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः॥३०॥
अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः।
औषधं जगतः सेतुः सत्यधर्मपराक्रमः॥३१॥
भूतभव्यभवन्नाथः पवनः पावनोऽनलः।
कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः॥३२॥
युगादिकृद्युगावर्तो नैकमायो महाशनः।
अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित्॥३३॥
इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः।
क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः॥३४॥
अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः।
अपांनिधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः॥३५॥
स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः।
वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः॥३६॥
अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः।
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः॥३७॥
पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत्।
महर्द्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः॥३८॥
अतुलः शरभो भीमः समयज्ञो हविर्हरिः।
सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः॥३९॥
विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः।
महीधरो महाभागो वेगवानमिताशनः॥४०॥
उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः।
करणं कारणं कर्ता विकर्ता गहनो गुहः॥४१॥
व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः।
परर्द्धिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः॥४२॥
रामो विरामो विरजो (or विरतो) मार्गो नेयो नयोऽनयः।
वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः॥४३॥
वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः।
हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः॥४४॥
ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः।
उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः॥४५॥
विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम्।
अर्थोऽनर्थो महाकोशो महाभोगो महाधनः॥४६॥
अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयूपो महामखः।
नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः॥४७॥
यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः।
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम्॥४८॥
सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत्।
मनोहरो जितक्रोधो वीरबाहुर्विदारणः॥४९॥
स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत्।
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः॥५०॥
धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम्।
अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः॥५१॥
गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः।
आदिदेवो महादेवो देवेशो देवभृद्गुरुः॥५२॥
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः।
शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः॥५३॥
सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः।
विनयो जयः सत्यसंधो दाशार्हः सात्त्वतांपतिः॥५४॥
जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः।
अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः॥५५॥
अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः।
आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः॥५६॥
महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः।
त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत्॥५७॥
महावराहो गोविन्दः सुषेणः कनकाङ्गदी।
गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः॥५८॥
वेधाः स्वाङ्गोऽजितः कृष्णो दृढः संकर्षणोऽच्युतः।
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः॥५९॥
भगवान् भगहाऽऽनन्दी वनमाली हलायुधः।
आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः॥६०॥
सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः।
दिवःस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः॥६१॥
त्रिसामा सामगः साम निर्वाणं भेषजं भिषक्।
संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम्॥६२॥
शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः।
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः॥६३॥
अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृच्छिवः।
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः॥६४॥
श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः।
श्रीधरः श्रीकरः श्रेयः श्रीमाँल्लोकत्रयाश्रयः॥६५॥
स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः।
विजितात्माऽविधेयात्मा सत्कीर्तिश्छिन्नसंशयः॥६६॥
उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः।
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः॥६७॥
अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः।
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः॥६८॥
कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः।
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः॥६९॥
कामदेवः कामपालः कामी कान्तः कृतागमः।
अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनंजयः॥७०॥
ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः।
ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः॥७१॥
महाक्रमो महाकर्मा महातेजा महोरगः।
महाक्रतुर्महायज्वा महायज्ञो महाहविः॥७२॥
स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः।
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः॥७३॥
मनोजवस्तीर्थकरो वसुरेता वसुप्रदः।
वसुप्रदो वासुदेवो वसुर्वसुमना हविः॥७४॥
सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः।
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः॥७५॥
भूतावासो वासुदेवः सर्वासुनिलयोऽनलः।
दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः॥७६॥
विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान्।
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः॥७७॥
एको नैकः सवः कः किं यत् तत्पदमनुत्तमम्।
लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः॥७८॥
सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी।
वीरहा विषमः शून्यो घृताशीरचलश्चलः॥७९॥
अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक्।
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः॥८०॥
तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः।
प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः॥८१॥
चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः।
चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात्॥८२॥
समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः।
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा॥८३॥
शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः।
इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः॥८४॥
उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः।
अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी॥८५॥
सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः।
महाह्रदो महागर्तो महाभूतो महानिधिः॥८६॥
कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः।
अमृतांशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः॥८७॥
सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः।
न्यग्रोधोऽदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः॥८८॥
सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः।
अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः॥८९॥
अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान्।
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः॥९०॥
भारभृत् कथितो योगी योगीशः सर्वकामदः।
आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः॥९१॥
धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः।
अपराजितः सर्वसहो नियन्ताऽनियमोऽयमः॥९२॥
सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः।
अभिप्रायः प्रियार्होऽर्हः प्रियकृत् प्रीतिवर्धनः॥९३॥
विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः।
रविर्विरोचनः सूर्यः सविता रविलोचनः॥९४॥
अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः।
अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः॥९५॥
सनात्सनातनतमः कपिलः कपिरव्ययः।
स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः॥९६॥
अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः।
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः॥९७॥
अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणांवरः।
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः॥९८॥
उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः।
वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः॥९९॥
अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः।
चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः॥१००॥
अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः।
जननो जनजन्मादिर्भीमो भीमपराक्रमः॥१०१॥
आधारनिलयोऽधाता पुष्पहासः प्रजागरः।
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः॥१०२॥
प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः।
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः॥१०३॥
भूर्भुवःस्वस्तरुस्तारः सविता प्रपितामहः।
यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः॥१०४॥
यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुक् यज्ञसाधनः।
यज्ञान्तकृद् यज्ञगुह्यमन्नमन्नाद एव च॥१०५॥
आत्मयोनिः स्वयंजातो वैखानः सामगायनः।
देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः॥१०६॥
शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः।
रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः॥१०७॥
सर्वप्रहरणायुध ॐ नम इति।
वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी।
श्रीमान् नारायणो विष्णुर्वासुदेवोऽभिरक्षतु॥१०८॥
श्री वासुदेवोऽभिरक्षतु ॐ नम इति।

उत्तरन्यासः

भीष्म उवाच —
इतीदं कीर्तनीयस्य केशवस्य महात्मनः।
नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम्॥१॥
य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत्।
नाशुभं प्राप्नुयात्किंचित्सोऽमुत्रेह च मानवः॥२॥
वेदान्तगो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत्।
वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात्॥३॥
धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात्।
कामानवाप्नुयात्कामी प्रजार्थी चाप्नुयात्प्रजाम्॥४॥
भक्तिमान् यः सदोत्थाय शुचिस्तद्गतमानसः।
सहस्रं वासुदेवस्य नाम्नामेतत्प्रकीर्तयेत्॥५॥
यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च।
अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम्॥६॥
न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति।
भवत्यरोगो द्युतिमान्बलरूपगुणान्वितः॥७॥
रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात्।
भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः॥८॥
दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम्।
स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः॥९॥
वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः।
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम्॥१०॥
न वासुदेवभक्तानामशुभं विद्यते क्वचित्।
जन्ममृत्युजराव्याधिभयं नैवोपजायते॥११॥
इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः।
युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः॥१२॥
न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः।
भवन्ति कृत पुण्यानां भक्तानां पुरुषोत्तमे॥१३॥
द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः।
वासुदेवस्य वीर्येण विधृतानि महात्मनः॥१४॥
ससुरासुरगन्धर्वं सयक्षोरगराक्षसम्।
जगद्वशे वर्ततेदं कृष्णस्य सचराचरम्॥१५॥
इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः।
वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च॥१६॥
सर्वागमानामाचारः प्रथमं परिकल्पते।
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः॥१७॥
ऋषयः पितरो देवा महाभूतानि धातवः।
जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम्॥१८॥
योगो ज्ञानं तथा सांख्यं विद्याः शिल्पादि कर्म च।
वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात्॥१९॥
एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः।
त्रींल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः॥२०॥
इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम्।
पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च॥२१॥
विश्वेश्वरमजं देवं जगतः प्रभुमव्ययम्।
भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम्॥२२॥
न ते यान्ति पराभवम ॐ नम इति।
अर्जुन उवाच —
पद्मपत्रविशालाक्ष पद्मनाभ सुरोत्तम।
भक्तानामनुरक्तानां त्राता भव जनार्दन॥२३॥
श्रीभगवानुवाच —
यो मां नामसहस्रेण स्तोतुमिच्छति पाण्डव।
सोऽहमेकेन श्लोकेन स्तुत एव न संशयः॥२४॥
स्तुत एव न संशय ॐ नम इति।
व्यास उवाच —
वासनाद्वासुदेवस्य वासितं भुवनत्रयम्।
सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते॥२५॥
श्री वासुदेव नमोऽस्तुत ॐ नम इति।
पार्वत्युवाच —
केनोपायेन लघुना विष्णोर्नामसहस्रकम।
पठ्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो॥२६॥
ईश्वर उवाच —
श्रीराम राम रामेति रमे रामे मनोरमे।
सहस्रनाम तत्तुल्यं राम नाम वरानने॥२७॥
श्रीरामनाम वरानन ॐ नम इति।
ब्रह्मोवाच —
नमोऽस्त्वनन्ताय सहस्रमूर्तये
सहस्रपादाक्षिशिरोरुबाहवे।
सहस्रनाम्ने पुरुषाय शाश्वते
सहस्रकोटि युगधारिणे नमः॥२८॥
सहस्रकोटि युगधारिणे ॐ नम इति।
सञ्जय उवाच —
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम॥२९॥
श्रीभगवानुवाच —
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्॥३०॥
परित्राणाय साधूनां विनाशाय च दुष्कृताम्।
धर्मसंस्थापनार्थाय संभवामि युगे युगे॥३१॥
आर्ताः विषण्णाः शिथिलाश्च भीताः घोरेषु च व्याधिषु वर्तमानाः।
संकीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्तु॥३२॥
कायेन वाचा मनसेंद्रियैर्वा बुद्ध्यात्मना वा प्रकृतिस्वभावात्।
करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि॥३३॥

इति श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रं सम्पूर्णम् ॥

॥ॐ तत्सदिति ॥

उपसंहारश्लोकाः

ॐ आपदामपहर्तारं दातारं सर्वसम्पदाम्।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्॥
आर्तानामार्तिहन्तारं भीतानां भीतिनाशनम्।
द्विषतां कालदण्डं तं रामचन्द्रं नमाम्यहम्॥
नमः कोदण्डहस्ताय सन्धीकृतशराय च।
खण्डिताखिलदैत्याय रामायापन्निवारिणे॥
रामाय रामभद्राय रामचन्द्राय वेधसे।
रघुनाथाय नाथाय सीतायाः पतये नमः॥
अग्रतः पृष्ठतश्चैव पार्श्वतश्च महाबलौ।
आकर्णपूर्णधन्वानौ रक्षेतां रामलक्ष्मणौ॥
सन्नद्धः कवची खड्गी चापबाणधरो युवा।
गच्छन्ममाग्रतो नित्यं रामः पातु सलक्ष्मणः॥
अच्युतानन्तगोविन्द नामोच्चारणभेषजात्।
नश्यन्ति सकला रोगास्सत्यं सत्यं वदाम्यहम्॥
सत्यं सत्यं पुनस्सत्यमुद्धृत्य भुजमुच्यते।
वेदाच्छास्त्रं परं नास्ति न देवं केशवात्परम् ॥
शरीरे जर्झरीभूते व्याधिग्रस्ते कलेवरे।
औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः॥
आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः।
इदमेकं सुनिष्पन्नं ध्येयो नारायणो हरिः ॥
यदक्षरपदभ्रष्टं मात्राहीनं तु यद्भवेत्।
तत्सर्व क्षम्यतां देव नारायण नमोऽस्तु ते ॥
विसर्गबिन्दुमात्राणि पदपादाक्षराणि च।
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम ॥

पर्यायोपसंहारश्लोकाः

नमः कमलनाभाय नमस्ते जलशायिने।
नमस्ते केशवानन्त वासुदेव नमोऽस्तुते॥
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च।
जगद्धिताय कृष्णाय गोविंदाय नमो नमः॥
आकाशात्पतितं तोयं यथा गच्छति सागरम्।
सर्वदेवनमस्कारः केशवं प्रति गच्छति॥
एष निष्कंटकः पन्था यत्र संपूज्यते हरिः।
कुपथं तं विजानीयाद् गोविन्दरहितागमम्॥
सर्ववेदेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम्।
तत्फलं समवाप्नोति स्तुत्वा देवं जनार्दनम्॥
यो नरः पठते नित्यं त्रिकालं केशवालये।
द्विकालमेककालं वा क्रूरं सर्वं व्यपोहति॥
दह्यन्ते रिपवस्तस्य सौम्याः सर्वे सदा ग्रहाः।
विलीयन्ते च पापानि स्तवे ह्यस्मिन् प्रकीर्तिते॥
येने ध्यातः श्रुतो येन येनायं पठ्यते स्तवः।
दत्तानि सर्वदानानि सुराः सर्वे समर्चिताः॥
इह लोके परे वापि न भयं विद्यते क्वचित्।
नाम्नां सहस्रं योऽधीते द्वादश्यां मम सन्निधौ॥
शनैर्दहन्ति पापानि कल्पकोटिशतानि च।
अश्वत्थसन्निधौ पार्थ ध्यात्वा मनसि केशवम्॥
पठेन्नामसहस्रं तु गवां कोटिफलं लभेत्।
शिवालये पठेनित्यं तुलसीवनसंस्थितः॥
नरो मुक्तिमवाप्नोति चक्रपाणेर्वचो यथा।
ब्रह्महत्यादिकं घोरं सर्वपापं विनश्यति॥
विलयं यान्ति पापानि चान्यपापस्य का कथा।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति॥

॥हरिः ॐ तत्सत्॥



Shri Vishnu Sahasranama Stotram Lyrics in English

Shuklam-baradharam Vishnum shashivarnam chaturbhujam |
Prasanna vadanam dhyayet sarva vighnopa-shantaye ||

Vyasam vasistha-naptaram shakteh poutrama-kalmasham |
Parasharaatmajam vande shukatatam taponidhim ||

Vyasaya vishnuroopaya vyasaroopaya vishnave |
Namo vai brahmanidhaye vasisthtya namo namaha ||

Avikaraya shudhaya nithya paramathmane |
Sadaika roopa roopaya vishnave sarva gishnave ||

Yasyasmarana matrena janma-samsara bhandanat |
Vimuchyate namastasmai vishnave prabha vishnave ||
Om namo vishnave prabhavishnave

SRI VAISHAMPAYANA UVACHA

Shrutva dharmana sheshena pavanani cha sarvashah |
Yudhishthirah shantanavam punarevaabhya bhashata ||

YUDHISHTHIRA UVACHA

Kimekam daivatam loke kim vapyekam parayanam |
Stuvantahkam kamarchantah prapnuyuh manavah-shubham ||

Ko dharmah sarva-dharmanam bhavatah paramo mataha |
Kim japanmuchyate janthuh janma samsara bandhanath ||

SRI BHISHMA UVACHA

Jagat-prabhum deva-devam anantam purushotamam |
Sthuva nnama-sahasrena purushah satatottitah ||

Tameva charchayannityam bhaktya purusha mavyayam |
Dhyayan stuvan nama-syamschha yajamanah thameva cha ||

Anadi nidhanam vishnum sarvaloka maheshvaram |
Lokadhyaksham sthuvannityam sarva duhkhatigo bhaveth ||

Brahmanyam sarva-dharmagnam lokanam keerthi vardhanam |
Lokanatham mahadbhootam sarvabhuta bhavod-bhavam ||

Esha me sarvadharmanam dharmodhikatamo mataha |
Yadbhaktya pundaree-kaksham stavairarche nara sada ||

Paramam yo maha-tejaha paramam yo maha-tapaha |
Paramam yo mahad-bramha paramam yah parayanam ||

Pavitranam pavitram yo mangalanam cha mangalam |
Daivatam devatanam cha bhootanam yovyayah pita ||

Yatah sarani bhutani bhavantyadi yugagame |
Yasminscha pralayam yanti punareva yugakshaye ||

Tasya loka pradhanasya jagannathasya bhupate |
Vishnor nama sahasram me shrunu papa bhayapaham ||

Yani namani gounani vikhyatani mahatmanaha |
Rishibhih parigeetani tani vakshyami bhootaye ||

Vishirnamnam sahasrasya vedavyaso maha munihi |
Chandho nusthup tatha devah bhagavan devakeesutaha ||

Amrutham-shubdavo beejam shaktir-devaki nandanaha |
Trisama hrudayam tasya shantyardhe viniyu-jyate ||

Vishnum jishnum maha-vishnum prabha-vishnum mahesvaram |
Anekarupa daithyantham namami purushottamam ||

Asya shree vishnor divya sahasranama sthotra maha-mantrasya
shree vedavyaso bhagavan rishihi, ansthup-chandaha
shree maha vishnuh paramatma shree mannarayanoo devata
amritam shoodbhavo bhanuriti beejam
devakee nandana srasthetih shakthi
udbavah kshobha-noo-deva iti paramo mantraha
shankha-bhrunnadakee chakreeti keelakam
sharnga-dhanva gadadhara itiastram
rathanga-pani rakshobhya iti netram
trisama samaga ssamete kavacham
Annandham para-bramheti yonihi
rutu shudarshanah kala iti digbandanah
sree vishvaroopa iti dhyanam
shree maha vishnu preetyarthe vishnordivya sahasra-namajape viniyogaha

Dhyanam 

Kshiro dhanvat pradeshe suchimani vilasat saikyate mauktikanam
Maalaaklupta sanasthah spatikamani nibhaih mauktikaih manditangaha
Shrubbrai rabrai radabrai rupari virachitai muktah peeusha varshahi
Aanande nah puniyatarenalina gadha shankha-panhi mukundaha ||
Bhuh padao yasyanabih viyada-suranelah chandra-soorya-cha-netra |
Karna-vasa-serodyah mooka-mapi dahano yesya-vaste-yamabdhihi |
Antastham-yasya-vishwam-suranara khagago bhogi gandharva dhaithyehi
Chitram ram-ramyate tham tribhuvana-vapusham vishnu-meesham namami !!

Om namo bhagavate vasudevaya

Santhakaram Bujaga Sayanam Padmanabham Suresam,
Viswadharam Gagana sadrusam Megha Varnam Shubangam
Lakshmi Kantham Kamala Nayanam Yogi Hrid Dyana Gamyam
Vande Vishnum Bava Bhayaharam Sarva Lokaika Nadham

Megha shyamam peetha kauseya vasam
Srivatsangam Kausthuboth Bhasithangam
Punyopetam pundari-kaya thaksham vishnum vande sarvalokaika natham

Namah samasta bhutanam-adi-bhutaya bhubrite
Aneka-rupa rupaya vishnave prabha-vishnave

Sashamkha-chakram-sakrireeta kundalam sapeetha-vastram-saraseeruhe kshanam
Sahara-vaksha sthala-shobi-kaustubham namami-vishnum-seerasaa chatur bhujam

Vishnu Sahasranama Stotram
Om Vishvam Vishnur-Vashatkaro Bhuta-Bhavya-Bhavat-Prabhuh
Bhutakrud Bhutabhrud Bhavo Bhutatma Bhuta-Bhavanah
Putatma Paramatma Cha Muktanam Parama Gatihi
Avyayah Purusha Sakshi KshetrajnoKshara EvaCha

Yogo Yogavidam Neta Pradhana-Purushesvaraha
Narasimha-Vapu Shriman Kesavah Purushottamah
Sarvah Sarvah Sivah Sthanur-Bhutadir-NidhirAvyayah
Sambhavo Bhavano Bharta Prabhavah Prabhur-Isvarah

Svayambhuh SambhurAdityah Pushkaraksho Mahasvanah
Anandi-Nidhano Dhata Vidhata Dhaturuttamah
Aprameyo Hrishikesah Padma-Nabho-Mara-Prabhuh
Visvakarma Manustvashta Sthavishtah Sthaviro-Dhruvah

Agrahyah Sasvatah Krishno Lohitakshah Pratardanah
Prabhutas-Trikakubdhama Pavitram Mangalam Param
Isanah Pranadah Prano Jyeshthah Sreshthah Prajapatih
Hiranyagarbho Bhugarbho Madhavo Madhusudanah

Ishvaro Vikrami Dhanvi Medhavi Vikramah Kramah
Anuttamo Duradharsah Krutajnah Krutiratmavan
Suresah Sharanam Sharma Vishvaretah Prajabhavah
Ahah Samvasaro Vyalah Pratyayah Sarvadarshanah

Ajah Sarveshvarah Siddhah Siddhih Sarvadir Acyutah
Vrushakapir Ameyatma Sarva-Yoga-Vinihshrutah
Vasur Vasumanah Satyah Samatma Sammitah Samah
Amoghah Pundarikaksho Vrusha-Karma Vrushakrutih

Rudro Bahushira Babhrur Vishva-Yonih Shuchi Sravah
Amrutah Shashvata-Sthanur Vararoho Maha-Tapah
Sarvagah Sarva-Vid-Bhanur Vishvaksheno Janardanah
Vedo Vedavid Avyango Vedango Vedavit Kavih

Lokadhyakshah Suradhyaksho Dharmadhyakshah Krutakrutah
Chaturatma Chaturvyuhas Chaturdamstras Chatur-Bhujah
Bhrajishnur-Bhojanam Bhokta Sahishnur Jagad-Adhijah
Anagho Vijayo Jeta Vishva-Yonih Punar-Vasuh

Upendro Vamanah Pramshur Amoghah Suchir Urjitah
Atindrah Samgrahah Sargo Dhrutatma Niyamo Yamah
Vedyo Vaidyah Sada-Yogi Viraha Madhavo Madhuh
Atindriyo Mahamayo Mahotsaho Mahabalah

Mahabuddir Mahaviryo Mahasaktir Mahadyutih
Anirdesyavapuh Shriman Ameyatma Mahadridhruk
Maheshvaso Mahibharta Shrinivasah Satam Gatih
Aniruddhah Suranando Govindo Govidam Patih

Marichir-Damano Hamsah Suparno Bhujagottamah
Hiranya-Nabha Sutapah Padmanabhah Prajapatih
Amrutyuh Sarva-Druk Simhah Sandhata Sandhiman Sthirah
Ajo Durmarshanah Shasta Vishrutatma Surariha

Gurur Gurutamo Dhama Satyah Satya-Parakramah
Nimisho Animishah Sragvi Vachaspatir Udaradhih
Agranir Gramanih Shriman Nyayo Neta Samiranah
Sahsra-Murdha Vishvatma Sahasraksha Sahasrapat

Avrtano Nivrutatma Samvrutah Sampramardanah
Ahah Samvartako Vahnir Anilo Dharani-Dharah
Suprasadah Prasannatma Vishva-Dhrug Vishva-Bhug Vibhuh
Sat-Karta Sat-Krutah Sadhur Jahnur Narayano Narah

Asankhyeyo Prameyatma Visistah Shishtakruch Chucih
Siddharthah Siddha-Sankalpah Siddhidah Siddhisadhanah
Vrushahi Vrushabho Vishnur Vrushaparva Vrushodarah
Vardhano Vardhamanascha Viviktah Shruti-Sagarah

Subhujo Durdharo Vagmi Mahendro Vasodo Vasuh
Naikarupo Bruhad-Rupah Shipivishtah Prakashana
Ojas Tejo Dyuti-Dharah Prakashatma Pratapanah
Vruddhah Spahstaksharo Mantras Chandramshur Bhaskaradyutih

Amrtamshu Dbhavo Bhanuh Shashabinduh Sureshvarah
Aushadham Jagatah Setuh Satya-Dharma-Prarakramah
Bhuta-Bhavya-Bhavan-Nathah Pavanah Pavano Analah
Kamaha Kamakrut Kantah Kamah Kamapradah Prabhuh

Yugadikrud Yugavarto Naikamayo Mahashanah
Adrushyo Vyakta-Rupascha Sahasrajid Anantajit
Ishtovishistah Shishtestah Sikhandi Nahusho Vrushah
Krodhaha Krodhakrut Karta Vishva-Bahur Mahidharah

Achyutah Prathitah Pranah Pranado Vasavanujah
Apam-Nidhir Adhishthanam Apramattah Pratishtitah
Skandah Skanda-Dharo Dhuryo Varado Vayuvahanah
Vashudevo Bruhad-Bhanur Adidevah Purandarah

Ashokas-Taranas-Tarah Surah Saurir Janeshvarah
Anukulah Shatavartah Padmi Padma-Nibhekshanah
Padmanabho Aravindakshah Padmagarbhah Sarirabhrut
Mahardhir Ruddho Vruddhatma Mahaksho Garuda-Dhvajah

Atulah Sarabho Bhimah Samayagno Havirharih
Sarvalakshana Lakshanyo Lakshmivan Samitinjayah
Viksharo Rohito Margo Hetur-Damodarah Sahah
Mahidharo Mahabhago Vegavan Amitashanah

Udbhavah Kshobhano Devan Shrigarbhah Parameshvarah
Karanam Kaaranam Karta Vikarta Gahano Guhah
Vyavasayo Vyavasthanah Samsthanah Sthanado Dhruvah
Parardhih Parama-Spashtas Tushtah Pushtah Subhekshanah

Ramo Viramo Virato Margo Neyo Nayonayah
Virah Shaktimatam Shreshtho Dharmo Dharma-Vid Uttamah
Vaikunthah Purushah Pranah Pranadah Pranavah Pruthuh
Hiranya-Garbhah Shatrughno Vyapto Vayur Adhokshajah

Rituh Sudarshanah Kalah Parameshti Parigrahah
Ugrah Samvatsaro Daksho Vishramo Vishva-Dakshinah
Vistarah Sthavara-Sthanuh Pramanam Bijam Avyayam
Arthonartho Mahakosho Mahabhogo Mahadhanah

Anirvinnah Sthavishthobhur Dharma-Yupo Maha-Makhah
Nakshatra-Nemir Nakshatri Kshamah Kshamah Samihanah
Yajna Ijyo Mahejyas Cha Kratuh Satram Satamgatih
Sarvadarshi Vimuktatma Sarvagyo Gynanam-Uttamam

Suvratah Sumukhah Sukshmah Sughoshah Sukhadah Suhrut
Manoharo Jita-Krodho Virabahur Vidaranah
Svapanah svavasho Vyapi Naikatma Naika-Karma-Krut
Vatsaro Vatsalo Vatsi Ratna-Garbho Dhaneshvarah

Dharmagub Dharmakrud Dharmi Sad-Asatksharam Aksharam
Avigyata Sahashramsur Vidhata Kruta-Lakshanah
Gabhasti-Nemih Sattvasthah Simho Bhuta-Maheshvarah
Adidevo Mahadevo Devesho Devabhrud-Guruh

Uttaro Gopatir Gopta Gyanagamyah Puratanah
Sharira-Bhuta-Bhrud Bhokta Kapindro Bhuridakshinah
Somapo Amrutapah Somah Purujit Purushottamah
Vinayo Jayah Satyasandho Dasharhah Satvatampatih

Jivo Vinayita-Sakshi Mukundo Amita Vikramah
Ambhonidhir Anantatma Mahodadhishayonatakah
Ajo Maharhah Svabhavyo Jitamitrah Pramodanah
Anando Nandano Nandah Satya-Dharma Trivikramah

Maharshih Kapilacharyah Krutagyo Medini-Patih
Tripadas Tridashadhyaksho Mahashrungah Krutantakrut
Mahavaraho Goivindah Sushenah Kanakangadi
Guhyo Gabhiro Gahano Guptas Chakra-Gadadharah

Vedhah Svango Ajitah Krishno Drudhah Sankarshano Acyutah
Varuno Vaaruno Vrukshah Pushkaraksho Mahamanah
Bhagavan Bhagahanandi Vanamali Halayudhah
Adityo Jyotir-Adityah Sahishnur Gatisattamah

Sudhanva-Khandaparashur-Daruno Dravinapradah
Divah-Spruk Sarva-Drug Vyaso Vachaspatir Ayonijah
Trisama Samagah Sama Nirvanam Bheshajam Bhishak
Sanyasakrut Chamah Santo Nishtha Shantih Parayanam

Shubhangah Shantidah Srashta Kumudah Kuvalesayah
Gohito Gopatir Gopta Vrushabhaksho Vrushapriyah
Anivarti Nivrutatma Samkshepta Kshema-Kruchivah
Shrivasta-Vakshah Shrivasah Shripatih Shrimatam-Varah

Shridah Shrishah Shrinivasah Shrinidhih Shri-Vibhavanah
Shridharah Shrikarah Shreyah Shriman Loka-Trayashrayah
Svakshah Svangah Shatanando Nandir Jyotir-Ganeshvarah
Vijitatma Vidheyatma Satkirtischinna-Samsayah

Udirnah Sarvata-Chakshur-Anisah Sasvata-Sthirah
Bhushayo Bhushano Bhutir Vishokah Shoka-Nashanah
Archishman Architah Kumbho Vishuddhatma Vishodhanah
Aniruddho Pratirathah Pradyumno Amita-Vikramah

Kalaneminiha Virah Saurih Sura-Janeshvarah
Trilokatma Trilokeshah Keshavah Keshiha Harih
Kamadevah Kamapalah Kami Kantah Krutagamah
Anirdeshya-Vapur Vishnur Viro Ananto Dhananjayah

Brahmanyo Brahmakrud-Brahma Brahma Brahma-Vivardhanah
Brahmavid Brahmano Brahmi Brahmgno Brahmana-Priyah
Mahakramo Mahakarma Mahateja Mahoragah
Mahakratur Mahayajva Mahayagyo Mahahavih

Stavyah Stavapriyah Stotram Stutih Stota Ranapriyah
Purnah Purayita Punyah Punyakirtir Anamayah
Manojavas Tirthakaro Vasureta Vasupradah
Vasuprado Vasudevo Vasur Vasumana Havih

Sadgatih Sat-Krutih Satta Sad-Bhutih Sat-Parayanah
Suraseno Yadushreshthah Sannivasah Suyamunah
Bhutavaso Vasudevah Sarvasu-Nilayo Analah
Darpaha Darpado Drupto Durdharo-Atha-Parajitah

Vishvamurtir Mahamurtir Diptamurtir Amurtiman
Anekamurtir Avyaktah Shatamurtih Shatananah
Eko Naikah Savah Kah Kim Yat Tat Padam-Anuttamam
Lokabandhur Lokanatho Madhavo Bhakta-Vastalah

Suvarna Varno Hemango Varangas Chandanangadi
Viraha Vishamah Sunyo Ghrutasir Achalaschalah
Amani Manado Manyo Lokasvami Triloka-Dhruk
Sumedha Medhajo Dhanyah Satyamedha Dharadharah

Tejovrusho Dyuti-Dharah Sarva-Shastra-Bhrutam-Varah
Pragrahonigraho Vyagro Naikashrungo Gadagrajah
Chaturmurtis Chaturbahus Chaturvyuhas Chaturgatih
Chaturatma Chaturbhavas Chaturvedavid Ekapat

Samavarto Anivrutatma Durjayo Duratikramah
Durlabho Durgamo Durgo Duravaso Durariha
Shubhango Lokasarangah Sutantus Tantu-Vardhanah
Indrakarma Mahakarma Krutakarma Krutagamah

Udbhavah Sundarah Sundo Ratnanabhah Sulochanah
Arko Vajasanah Shrungi Jayantah Sarva-Vij-Jayi
Suvarna-Bindur-Akshobhyah Sarva-Vagishvareshvarah
Mahahrado Maha-Garto Maha-Bhuto Maha-Nidhih

Kumudah Kundarah Kundah Parjanyah Pavano Anilah
Amrutasho Amrutavapuh Sarvagyah Sarvato-Mukha
Sulabhah Suvratah Siddhah Shatru-Jit Shatru-Tapanah
Nyagrodho Adumbaro-Svatthas Chanurandhra-Nishudhanah

Sahasrarchi Sapta-Jihvah Saptaidhah Sapta-Vahanah
Amurtir Anagho Achintyo Bhayakrud Bhaya-Nashanah
Anur Bruhat Krusah Sthulo Gunabrun Nirguno Mahan
Adhrutah Svadhrutah Svasyah Pragvamsho Vamshavardhanah

Bhara-Bhrut Kathito Yogi Yogishah Sarva-Kamadah
Ashramah Shramanah Kshamah Suparno Vayu-Vahanah
Dhanurdharo Dhanurvedo Dando Damayita Damah
Aparajitah Sarvasaho Niyanta Niyamo Yamah

Satvavan Satvikah Satyah Satya-Dharma-Parayanah
Abhiprayah Priyarho-Rhah Priyakrut Pritivardhanah
Vihayasagatir Jyotih Suruchir Huta-Bhug Vibhuh
Ravir Virochanah Suryah Savita Ravilochanah

Ananto Huta-Bhug Bhokta Sukhado Naikajo-Grajah
Anirvinnah Sadamarshi Lokadhishthana-Madbhutah
Sanat Sanatana-Tamah Kapilah Kapir Avyayah
Svastidah Svastikrut Svasti Svastibhuk Svasti-Dakshinah

Araudrah Kundali Chakri Vikramyurjita-Shasanah
Shabdatigah Shabdasahah Sisirah Sarvari-Karah
Akrurah Peshalo Daksho Dakshinah Kshiminam Varah
Vidvattamo Vitabhayah Punya-Shravana-Kirtanah

Uttarano Dushkrutiha Punyo Duh-Svapna-Nasanah
Viraha Rakshanah Santo Jivanah Paryavasthitah
Ananta-Rupo Ananta-Shri Jitamanyur Bhayapahah
Chaturashro Gabhiratma Vidisho Vyadisho Dishah

Anadi Bhurbhuvo Lakshmih Suviro Ruchirangadah
Janano Janajanmadir Bhimo Bhima-Parakramah
Adharanilayo Dhata Pushpahasah Prajagarah
Urdhvagah Sat-Pathacharah Pranadah Pranavah Panah

Pramanam Prananilayah Pranabhrut Pranajivanah
Tatvam Tatvavidekatma Janma-Mrutyu-Jaratigah
Bhurbhuvah Svastarus-Tarah Savita Prapitamahah
Yagyo Yagya-Patir-Yajva Yagyango Yagya-Vahanah

Yagyabhrud Yagyakrud Yagyi Yagyabhrug Yagyasadhanah
Yagyanantakrud Yagyaguhyam Annam Annada Eva Cha
Atmayonih Svayamjato Vaikhanah Samagayanah
Devaki-Nandanah Srashtha Kshitishah Papanashanah

Shankhabrunnandaki Chakri Sharangadhnva Gadadharah
Rathanga Panirakshobhyah Sarva-Praharanayudhah

Sree Sarva-Praha-Rana-Yudha Om Naman Ithi

Vanamali Gadi Sharangi Shankhi Chakri Cha Nandaki
Shriman Narayano Vishnur-Vasudevo Abhirakshatu
Vanamali Gadi Sharangi Shankhi Chakri Cha Nandaki
Shriman Narayano Vishnur-Vasudevo Abhirakshatu

Iteedam Keerta-Neeyasya Kesha-Vasya Maha-Tmanah

Namnam sahasram divyanam asheshena prakeer-titam

Ya Edam Shrunuyat Nityam Yaschhapi Parikeertayet
Nashubham-Prapnuyat-Kinchit So Mutreha-Cha-Manavah

Vedan-Tago Bramhana-Syat Kshatriyo Vijayee Bavet
Vaisyo Dhana-Samru-Ddhasyat Shhoodra Sukha Mavap-Nuyat

Dharmarthee Prapnu-Yatdharmam Artharthee Chartha Mapnuyat
Kamana-Vapnuyat-Kamee Prajarthee Chapnu-Yat-Prajam

Bhakt-Imanya Sadotthaya Shuchi-Stadgata Manasah
Sahasram Vasu-Devasya Namna Metat Prakee-Rtayet

Yashah Prapnoti Vipulam Ynati Praadhanya Meva-Cha
Achalam shriya mapnothi shreyah prapnotya-nuttamam

Na Bhayam Kvachi Dapnoti Veeryam Tejachha Vindati
Bhava Tyarogo Dhyu-Timan Bala-Roopa Gunan-Vitah

Rogarto Muchyate Rogat Baddho Muchyeta Bandhanat
Bhaya Nmuchyeta Bheetastu Muchye Tapanna Apadha

Durganya-Titara Tyashu Purushah Purusho-Ttamam
Stuva Nnama-Saha-Srena Nityam Bhakti Saman-Vitah

Vasu-Deva-Shrayo Marthyo Vasu-Deva Para-Yanah
Sarva-Papa Vishu-Ddhatma Yati Bramha Sana-Tanam

Na Vasu-Deva Bhakta-Nam Ashubham Vidyate Kvachit
Janma Mrithyu Jara Vyadhi Bhayam Naivapa Jayate

Emam Stava Madhee-Yanah Shraddha-Bhakti Sama-Nvitah
Yujye Tatam Sukha-Kshantih Shree-Dhrati Smruti Keertibhih

Na Krodho Na Matsaryam Na Lobho Na Shubha-Matih
Bhavanti Kruta Punyanam Bhakta-Nam Puru-Shottame

Dhyou Sachan-Drarka Nakshatra Kham Disho Bhoorma-Hodadhih
Vasu-Devasya Veeryena Vidhrutani Mahat-Manah

Sa-Sura-Sura Gandharvam Sa-Yaksho-Raga Raksha-Sam
Jaga-Dvashe Varta-Tedam Krishnasya Sachara-Charam

Indri-Yani Mano-Buddhih Satvam Tejo-Balam Dhrutih|
Vasu-Devatma Kanyahuh Kshetram-Kshetragyna Eva Cha

Sarva-Gamana Macharah Prathamam Pari-Kalpate
Aachara Prabhavo Dharmo Dharmasya Pradhu-Rachyutah

Rushayah Pitaro Devah Maha-Bhootani Dhatavah |
Jangama-Jangamam Chedam Jagannaraya-Nodbhavam

Yogo Gynanam Tatha Sankhyam Vidya Shilpadi KarmaCha
Vedah Shasthrani Vigynana EtatSarvam Janar-Danat

Eko-Vishnu Rmaha-Dbhootam PruthaGbhoota Nyanekasah
Trilon-Lokan-Vyapya-Bhootatma Bhute Vishva-Bhugavyayah

Emam Stavam Bhagavato Vishnor-Vyasena Keertitam
Pathedya Echhet Purushah Shreyah Praptum Sukhani-Cha

Vishve-Shvara Majam Devam Jagatah Prabhu Mavyam
Bhajanti Ye Pushka-Raksham Nate Yanti Para-Bhavam
Na Te Yanti Para-Bhavam Om Nama Iti

Arjuna Uvacha..

Padma-Patra Visha-Laksha Padma-Nabha Surottama
Bhaktana Manu-Raktanam Trata Bhava Janardana

Shree Bhagavan Uvacha..

Yo-Mam Nama Saha-Srena Stotu Michhati Pandava
Sho Ha Mekena Shlokena Stuta Eva Na Samshayah

Stuta Eva Na Samshaya Om Nama Iti

Vyasa Uvacha..

Vasa-Naad Vasu Devsaya Vasitham Te Jaga-Thrayam
Sarva-Butha Nivaso Si Vaasu-Deva Namo Stute
Vasu-Deva Namostute Om Nama Iti

Parvati Uyvachv…

Keno-Paayena Laghunaa Vishnur-Nama Saha-Skrakam
Patyate Pamditeh Nityam Shortu Michha Myaham Prabho

Eshwara Uvacha…

Shree-Rama Rama Rameti Rame Raame Mano-Rame
Saha-Sranaama Tattulyam Raama-Naama Varaa-Nane
Shree-Rama Rama Rameti Rame Raame Mano-Rame
Saha-Sranaama Tattulyam Raama-Naama Varaa-Nane

Raama Naama Varaa Nana Om Nama Iti

Bramha Uvacha ..

Namo Stvana-Ntaya Saha-Sramurtaye
Saha-Srapaa-Dakshi Shiroru-Bahave
Saha-Sranaamne Puru-Shaya Shashvate
Saha-Srakoti-Yuga-Dharine Namah
Saha-Srakoti Yuga-Dharina Om Nama Iti

Sanjaya Uvacha…

Yatra Yogeshvarah Krushno Yatra Paardho Dhanur-Dharah
Tatra-Shreeh Vijayo Bhutih Dhruva Neetih Mati Rmama

Shree Bhagawan Uvacha ..

Ananya-Schinta-Yanto Mam Ye Janaah Paryu-Panate
Tesham Nitya-Bhiyuktanaam Yoga-Kshemam Vaha-Myaham

Parithrayana Sadhunam Vinasaya Cha Dushkritham
Dharma Samsthapanarthaya Sambhavami Yuge Yuge

Aartha-Vishanna-Shithila-Schabhitah Ghoreshucha-Vyadhi-Varthamanah
Samkeertya-Narayana-Shabda-Matram Vimukta-Duhghah-Sukhino-Bhavantu

Kayena-Vaacha Mana-Sendhriyerva
Buddhyatma-Naavaa Prakrute-Swabhawat
Karomi Yadyat Sakalam Parasmai
Naaraa Yanayeti Samarpayami



No comments

Powered by Blogger.